वांछित मन्त्र चुनें

दी॒र्घं ह्य॑ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः । पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

अंग्रेज़ी लिप्यंतरण

dīrghaṁ hy aṅkuśaṁ yathā śaktim bibharṣi mantumaḥ | pūrveṇa maghavan padājo vayāṁ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat ||

पद पाठ

दी॒र्घम् । हि । अ॒ङ्कु॒शम् । य॒था॒ । शक्ति॑म् । बिभ॑र्षि । म॒न्तु॒ऽमः॒ । पूर्वे॑ण । म॒घ॒ऽव॒न् । प॒दा । अ॒जः । व॒याम् । यथा॑ । य॒मः॒ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥ १०.१३४.६

ऋग्वेद » मण्डल:10» सूक्त:134» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:22» मन्त्र:6 | मण्डल:10» अनुवाक:11» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मन्तुमः) हे ज्ञानवन् राजन् ! (दीर्घम्-अङ्कुशम्) दीर्घ अङ्कुश (यथा) जैसी (शक्तिं बिभर्षि) तू शक्ति को धारण करता है, अतः (मघवन्) हे धनवन् राजन् ! (पूर्वेण पदा) अगले पैर-पैरों से (अजः-यथा) बकरा जैसे (वयां यमः) शाखा को अपने अधीन करता है, वैसे ही तू शत्रु को स्वाधीन कर (देवी०) पूर्ववत् ॥६॥
भावार्थभाषाः - राजा को चाहिए कि दीर्घ, तीक्ष्ण अङ्कुश की भाँति शक्ति को धारण करे और अपने प्रथम आक्रमण से शत्रु को स्वाधीन करे, जैसे बकरा शाखा को अपने अगले पैरों से अपने वश करता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मन्तुमः) हे ज्ञानवन् ! मन्तुर्ज्ञानं तद्वन् “मतुवसो रु सम्बुद्धौ छन्दसि” [अष्टा० ८।३।१] इति नकारस्य रुत्वं (दीर्घम्-अङ्कुशं यथा) दीर्घमङ्कुशमिव (शक्तिं बिभर्षि) शक्तिं त्वं धारयसि, अतः (मघवन् पूर्वेण-पदा-अजः-यथा वयां यमः) हे धनवन् राजन् ! यथाऽजः पशुरग्रपादेन पद्भ्यां शाखां स्वाधीनं करोति तद्वत् त्वं-शत्रुं यमय स्वाधीनं कुरु (देवी०) पूर्ववत् ॥६॥